Shree Shiva — the destroyer and transformer in the Hindu trinityShree Shivamonday

Chamakam

चमकम्

25 min read55 versesSource: Krishna Yajurveda - Taittiriya Samhita (4.7)

About Chamakam

Chamakam (चमकम्) is a sacred prayer dedicated to Lord Shiva. Drawn from Krishna Yajurveda - Taittiriya Samhita (4.7), this text has been cherished by devotees for centuries. Chanting this stotra with devotion is said to companion to Namakam - together they form the complete Sri Rudram as well as bestow strength of body, mind, senses, and spirit. Additionally, it is known to grant material prosperity - grains, gold, cattle, and all resources. This prayer is traditionally recited on Monday (Somvar) and during Maha Shivaratri and Pradosh to invoke divine grace. Comprising 55 verses, it can be completed in approximately 25 minutes, making it suitable for daily devotional practice. On this page, you can read the complete Chamakam in Devanagari Sanskrit with English transliteration, Hindi meaning (arth), and free PDF download for offline recitation.

Reviewed & translated by Acharya Pushyadant Mishra

Stotra Path (स्तोत्र पाठ)

॥ श्री रुद्रम् चमकम् ॥

॥ प्रथमोऽनुवाकः ॥

अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः।

द्युम्नैर्वाजेभिरागतम्॥

वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे

स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे

प्राणश्च मेऽपानश्च मे व्यानश्च मेऽसुश्च मे चित्तं च म

आधीतं च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे

दक्षश्च मे बलं च म ओजश्च मे सहश्च म

आयुश्च मे जरा च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मे

ऽङ्गानि च मेऽस्थानि च मे परूंषि च मे शरीराणि च मे॥ १॥

॥ द्वितीयोऽनुवाकः ॥

ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश्च मे भामश्च मेऽमश्च मेऽम्भश्च मे

जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे

वर्ष्मा च मे द्राघिमा च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे

जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे

जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे

वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे

सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश्च मे

क्लृप्तं च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे॥ २॥

॥ तृतीयोऽनुवाकः ॥

शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे

सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे

भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे

विश्वं च मे महश्च मे संवित्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे

सीरं च मे लयश्च म ऋतं च मेऽमृतं च मे

अयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे

अनमित्रं च मेऽभयं च मे सुगं च मे शयनं च मे

सूषा च मे सुदिनं च मे॥ ३॥

॥ चतुर्थोऽनुवाकः ॥

ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे

सग्धिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च म

औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे

विभु च मे प्रभु च मे बहु च मे भूयश्च मे

पूर्णं च मे पूर्णतरं च मेऽक्षितिश्च मे कूयवाश्च मे

अन्नं च मेऽक्षुच्च मे व्रीहयश्च मे यवाश्च मे

माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे

गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मेऽणवश्च मे

श्यामाकाश्च मे नीवाराश्च मे॥ ४॥

॥ पञ्चमोऽनुवाकः ॥

अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे

सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मेऽयश्च मे

सीसं च मे त्रपुश्च मे श्यामं च मे लोहं च मेऽग्निश्च म

आपश्च मे वीरुधश्च म ओषधयश्च मे कृष्टपच्यं च मेऽकृष्टपच्यं च मे

ग्राम्याश्च मे पशव आरण्याश्च

यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे

भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे

कर्म च मे शक्तिश्च मेऽर्थश्च म एमश्च म इतिश्च मे गतिश्च मे॥ ५॥

॥ षष्ठोऽनुवाकः ॥

अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे

सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे

मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे

धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे

मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे

पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे

दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे

प्रजापतिश्च म इन्द्रश्च मे॥ ६॥

॥ सप्तमोऽनुवाकः ॥

अंशुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च म

उपांशुश्च मेऽन्तर्यामश्च मे ऐन्द्रवायवश्च मे मैत्रावरुणश्च मे

आश्विनश्च मे प्रतिपस्थानश्च मे शुक्रश्च मे मन्थी च म

आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मे

ऋतुग्रहाश्च मेऽतिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे

मरुत्वतीयाश्च मे माहेन्द्रश्च म

आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे

पात्नीवतश्च मे हारियोजनश्च मे॥ ७॥

॥ अष्टमोऽनुवाकः ॥

इध्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णियाश्च मे

स्रुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च मे

उपरवाश्च मेऽधिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे

पूतभृच्च मेऽऽदवनीयश्च म

आग्नीध्रं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे

पुरोडाशाश्च मे पचताश्च मेऽवभृथश्च मे स्वगाकारश्च मे॥ ८॥

॥ नवमोऽनुवाकः ॥

अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे

पृथिवी च मेऽदितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो

दिशश्च मे यज्ञेन कल्पन्ताम् ऋक्च मे साम च मे स्तोमश्च मे

यजुश्च मे दीक्षा च मे तपश्च म ऋतुश्च मे व्रतं च मे

ऽहोरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम्॥ ९॥

॥ दशमोऽनुवाकः ॥

गर्भाश्च मे वत्साश्च मे त्र्यविश्च मे त्र्यवी च मे

दित्यवाट् च मे दित्यौही च मे पञ्चाविश्च मे पञ्चावी च मे

त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौही च मे

पष्ठवाट् च मे पष्ठौही च मे उक्षा च मे वशा च मे

ऋषभश्च मे वेहच्च मे ऽनड्वाञ्च मे धेनुश्च म

आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पतां

व्यानो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पतां श्रोत्रं यज्ञेन कल्पतां

मनो यज्ञेन कल्पतां वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां

यज्ञो यज्ञेन कल्पताम्॥ १०॥

॥ एकादशोऽनुवाकः ॥

एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म

एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे

नवदश च म एकविंशतिश्च मे त्रयोविंशतिश्च मे

पञ्चविंशतिश्च मे सप्तविंशतिश्च मे नवविंशतिश्च म

एकत्रिंशच्च मे त्रयस्त्रिंशच्च मे

चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विंशतिश्च मे

चतुर्विंशतिश्च मेऽष्टाविंशतिश्च मे द्वात्रिंशच्च मे षट्त्रिंशच्च मे

चत्वारिंशच्च मे चतुश्चत्वारिंशच्च मेऽष्टाचत्वारिंशच्च मे

वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च

व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च

भुवनश्चाधिपतिश्च॥ ११॥

ॐ शान्तिः शान्तिः शान्तिः॥

॥ इति श्री कृष्णयजुर्वेद तैत्तिरीयसंहिता चतुर्थकाण्डे सप्तमः प्रपाठकः चमकं सम्पूर्णम् ॥

Benefits (फल)

  • Companion to Namakam - together they form the complete Sri Rudram
  • Invokes every conceivable blessing from Lord Rudra
  • Grants material prosperity - grains, gold, cattle, and all resources
  • Bestows strength of body, mind, senses, and spirit
  • Brings long life, health, and freedom from disease
  • Grants victory, fame, and sovereignty
  • The mystical odd-even number sequence invokes cosmic order
  • Chanting with Namakam completes the Rudra Yaga

Frequently Asked Questions

Common questions about Chamakam

Read Chamakam from Krishna Yajurveda in Sanskrit with transliteration and Hindi meaning. Companion to Sri Rudram for invoking all blessings. It is dedicated to Shree Shiva (श्री शिव), the destroyer and transformer in the hindu trinity. lord of meditation and cosmic dance. This sacred hymn contains 55 verses and is sourced from Krishna Yajurveda - Taittiriya Samhita (4.7).