Guru Ashtakam
श्री गुरु अष्टकम्
About Guru Ashtakam
Guru Ashtakam (श्री गुरु अष्टकम्) is an eight-verse devotional hymn dedicated to Lord Dattatreya. This revered text originates from Adi Shankaracharya. Devotees recite this prayer to remove ego, pride, and attachment to worldly possessions and shankaracharya' supreme teaching on Guru-bhakti - Shareeram Suroopam. It is also said to recitation develops humility and surrender to the spiritual master. For best results, devotees chant this on Thursday (Guruvar) and during Guru Purnima. With 8 verses and a reading time of about 7 minutes, this prayer is ideal for both daily worship and special occasions. On this page, you can read the complete Guru Ashtakam in Devanagari Sanskrit with English transliteration, Hindi meaning (arth), and free PDF download for offline recitation.
Reviewed & translated by Acharya Pushyadant Mishra
Stotra Path (स्तोत्र पाठ)
॥ श्री गुरु अष्टकम् ॥
शरीरं सुरूपं तथा वा कलत्रं
यशश्चारु चित्रं धनं मेरुतुल्यम्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्॥१॥
कलत्रं धनं पुत्रपौत्रादि सर्वं
गृहं बान्धवाः सर्वमेतद्धि जातम्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्॥२॥
षडङ्गादिवेदो मुखे शास्त्रविद्या
कवित्वादि गद्यं सुपद्यं करोति।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्॥३॥
विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्यः।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्॥४॥
क्षमामण्डले भूपभूपालवृन्दैः
सदा सेवितं यस्य पादारविन्दम्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्॥५॥
यशो मे गतं दिक्षु दानप्रतापात्
जगद्वस्तु सर्वं करे यत्प्रसादात्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्॥६॥
न भोगे न योगे न वा वाजिराजौ
न कान्तामुखे नैव वित्तेषु चित्तम्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्॥७॥
अरण्ये न वा स्वस्य गेहे न कार्ये
न देहे मनो वर्तते मे त्वनर्घ्ये।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्॥८॥
गुरोरष्टकं यः पठेत्पुण्यदेही
यतिर्भूपतिर्ब्रह्मचारी च गेही।
लभेद्वाञ्छितार्थं पदं ब्रह्मसंज्ञं
गुरोरुक्तवाक्ये मनो यस्य लग्नम्॥
॥ इति श्रीमदाद्यशंकराचार्यविरचितं गुर्वष्टकं सम्पूर्णम् ॥
Benefits (फल)
- ★Shankaracharya's supreme teaching on Guru-bhakti - Shareeram Suroopam
- ★Establishes that without devotion to Guru, all worldly attainments are meaningless
- ★Recitation develops humility and surrender to the spiritual master
- ★Ideal for Guru Purnima and all occasions of Guru worship
- ★Grants the supreme Brahma-pada through Guru's grace
- ★Removes ego, pride, and attachment to worldly possessions
