Mandukya Upanishad
माण्डूक्योपनिषद्
About Mandukya Upanishad
Dedicated to Lord Vishnu, the Mandukya Upanishad (माण्डूक्योपनिषद्) is a sacred prayer revered in Hindu tradition. Attributed to Atharvaveda - Mandukya Upanishad, this prayer holds a special place in Hindu devotional literature. Regular recitation is believed to meditation on Mandukya leads to direct realization of Atman as Brahman, reveal the four states of consciousness through analysis of Om, and turiya (the Fourth) transcends waking, dream, and deep sleep states. With 12 verses and a reading time of about 15 minutes, this prayer is ideal for both daily worship and special occasions. On this page, you can read the complete Mandukya Upanishad in Devanagari Sanskrit with English transliteration, Hindi meaning (arth), and free PDF download for offline recitation.
Reviewed & translated by Acharya Pushyadant Mishra
Stotra Path (स्तोत्र पाठ)
॥ श्री माण्डूक्योपनिषद् ॥
॥ शान्ति मन्त्र ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः॥
ॐ शान्तिः शान्तिः शान्तिः॥
॥ उपनिषद् ॥
ॐ इत्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं
भूतं भवद्भविष्यदिति सर्वमोंकार एव।
यच्चान्यत्त्रिकालातीतं तदप्योंकार एव॥ १॥
सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात्॥ २॥
जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः
स्थूलभुग्वैश्वानरः प्रथमः पादः॥ ३॥
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः
प्रविविक्तभुक्तैजसो द्वितीयः पादः॥ ४॥
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति
तत्सुषुप्तम्। सुषुप्तस्थान एकीभूतः प्रज्ञानघन
एवानन्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादः॥ ५॥
एष सर्वेश्वरः एष सर्वज्ञ एषोऽन्तर्यामी
एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्॥ ६॥
नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं
न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम्।
अदृष्टमव्यवहार्यमग्राह्यमलक्षणम्
अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं
प्रपञ्चोपशमं शान्तं शिवमद्वैतं
चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः॥ ७॥
सोऽयमात्माध्यक्षरमोंकारोऽधिमात्रं पादा मात्रा
मात्राश्च पादा अकार उकारो मकार इति॥ ८॥
जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा
आप्तेरादिमत्त्वाद्वाऽऽप्नोति ह वै सर्वान्कामानादिश्च
भवति य एवं वेद॥ ९॥
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रा
उत्कर्षादुभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं
समानश्च भवति नास्याब्रह्मवित्कुले भवति य एवं वेद॥ १०॥
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा
मितेरपीतेर्वा मिनोति ह वै सर्वमिदं
अपीतिश्च भवति य एवं वेद॥ ११॥
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः
शिवोऽद्वैत एवमोंकार आत्मैव
संविशत्यात्मनाऽऽत्मानं य एवं वेद य एवं वेद॥ १२॥
॥ गौडपाद कारिका — प्रमुख श्लोक ॥
विश्वो हि स्थूलभुन्नित्यं तैजसः प्रविविक्तभुक्।
आनन्दभुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत॥
स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम्।
आनन्दश्च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत॥
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता॥
॥ शान्ति मन्त्र ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः॥
ॐ शान्तिः शान्तिः शान्तिः॥
॥ इति श्री माण्डूक्योपनिषद् सम्पूर्णा ॥
Benefits (फल)
- ★Most concise yet profound Upanishad - called sufficient for liberation by itself
- ★Reveals the four states of consciousness through analysis of Om
- ★Turiya (the Fourth) transcends waking, dream, and deep sleep states
- ★Gaudapada Karika key verses establish the Ajativada (non-origination) philosophy
- ★Foundation of Advaita Vedanta as taught by Shankaracharya
- ★Meditation on Mandukya leads to direct realization of Atman as Brahman
